॥श्रीशिवरामाष्टकस्तोत्रम्॥
शिवहरे शिवराम सखे प्रà¤ो, त्रिविधताप-निवारण हे विà¤ो।
अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरू मे वरम् ॥१॥
कमल लोचन राम दयानिधे, हर गुरो गजरक्षक गोपते।
शिवतनो à¤à¤µ शङ्कर पाहिमां, शिव हरे विजयं कुरू मे वरम् ॥२॥
स्वजनरञ्जन मङ्गलमन्दिर, à¤à¤œà¤¤ि तं पुरुषं परं पदम्।
à¤à¤µà¤¤ि तस्य सुखं परमाद्à¤ुतं, शिवहरे विजयं कुरू मे वरम् ॥३॥
जय युधिष्ठिर-वल्लठà¤ूपते, जय जयार्जित-पुण्यपयोनिधे।
जय कृपामय कृष्ण नमोऽस्तुते, शिव हरे विजयं कुरू मे वरम् ॥४॥
à¤à¤µà¤µिमोचन माधव मापते, सुकवि-मानस हंस शिवारते।
जनक जारत माधव रक्षमां, शिव हरे विजयं कुरू मे वरम् ॥५॥
अवनि-मण्डल-मङ्गल मापते, जलद सुन्दर राम रमापते।
निगम-कीर्ति-गुणार्णव गोपते, शिव हरे विजयं कुरू मे वरम् ॥६॥
पतित-पावन-नाममयी लता, तव यशो विमलं परिगीयते।
तदपि माधव मां किमुपेक्षसे, शिव हरे विजयं कुरू मे वरम् ॥à¥॥
अमर तापर देव रमापते, विनयतस्तव नाम धनोपमम्।
मयि कथं करुणार्णव जायते, शिव हरे विजयं कुरू मे वरम् ॥८॥
हनुमतः प्रिय चाप कर प्रà¤ो, सुरसरिद्-धृतशेखर हे गुरो।
मम विà¤ो किमु विस्मरणं कृतं, शिव हरे विजयं कुरू मे वरम् ॥९॥
नर हरेति परम् जन सुन्दरं, पठति यः शिवरामकृतस्तवम्।
विशति राम-रमा चरणाम्बुजे, शिव हरे विजयं कुरू मे वरम् ॥१०॥
प्रातरूथाय यो à¤à¤•्त्या पठदेकाग्रमानसः।
विजयो जायते तस्य विष्णु सान्निध्यमाप्नुयात् ॥११॥
